SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [९५) भ. ४ सू. १ पञ्चालमार्गनिर्वाहो यथाते काकुत्स्थपृषत्कजर्जरजरत्तालद्रुमस्थाणव स्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टाङ्किताः । ते लीलाशबरेन्दुशेखरशरल्याक्षेपवीथीभुवो दुर्गाहा अपि गाहिताः शशिरुचा की. वनान्तास्तव ॥४१८॥ एवं प्रबन्धेऽपि । प्रयोगमार्ग प्रति च सन्तः प्रमाणम् । ते च न सर्वत्र समतां वैचित्र्याय संगिरन्ते । तथा हि अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षे हृता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद । नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥४१९॥ [ ह. ना. अं. ७. लो. ४४ ] इत्यादौ मसृणमार्गत्यागो गुणः । (108) तस्मात्समता न वक्तव्या । अर्थगुणस्तु ‘अवैषम्यं समता' [ का. लं. सू. अधि. ३. अ. २. सू. ५ ] प्रक्रमभेदो यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः । मनसि च गिरं प्रश्नन्तीमे किरन्ति न कोकिलाः ॥४२०॥ [ औ. वि. च. श्लो. २६. पृ. १४६ मालवकुवलय. ] प्रक्रमाभेदो एवैषम्यं यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः । मलयमरुतः सर्पन्तीमे वियोगिधृतिच्छिदः ॥४२१॥ इति । मधुप्रीष्मर्तुप्रतिपादनपरेऽत्र द्वितीयपादे प्रक्रमभेदः । मलयमस्तामसाधा२५ रणत्वात् । ततश्चापदोषत्वमेतन्न गुण इति । (109) अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः। 1 A. B. ररुणत् + उपमास्वियहिष्ठनां (2) अर्थानां यत्नतस्तथा । प्राप्तानां चातिसयोगः समाधि: परिकीर्त्यते ॥ ना. शा. अ. १. लो. १.१ (C. S. S.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy