SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ९५) अ. ४ सू. १] काव्यानुशासनम् २७९ यथा'स्मरनवनदी' ॥४१२॥ इति । (105) भिन्नाधिकरणा हि गुणालङ्कारास्तत्कथमन्योन्य भूषयेयुरिति दण्डी। लेषयमकचित्राणि हि प्रायेण गुणान् विगृह्य वर्तन्ते । अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तद्वदेव । तस्मात् (106) प्रबन्धेष्वविषमं समम् । [का. द.परि.१ श्लो.४७] वे च प्रौढो मृदुर्मध्यश्चेति त्रयः । प्रौढमृदुमध्यवर्णविन्यासयोनित्वात् । प्रौढो ५ यथा १. आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुटयतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥४१३॥ [शि. व. स. १०, श्लो. ७४ ] मूदुर्यथाललितमङ्गमपाङ्गविलोकितं स्मितसुधालवपल्लवितोऽधरः । इति मनो जयतः प्रमादाजने मनसिजस्य जयन्ति शिलीमुखाः ॥४१४॥ मध्यो यथा-- ईदृशस्य भवतः कथमेतल्लाघवं मुहुरितीव रतेषु ।। क्षिप्तमायतमदर्शयदुया काञ्चिदाम जघनस्य महत्त्वम् ॥४१५ [शि. व. स. १० श्लो. ४७ ] तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः। (107) तस्माद्येन रीतिविशेदेणोपक्रमस्तस्यापरित्याग आ समाप्तेरिति समताया रूपम् । तन्मुक्तके प्रवन्धे च। २० [ का. लं. सू. अधि. ३. अ. १. सू. ११] वैदर्भमार्गनिर्वाहो यथा' किं व्यापारैः-' ॥४१६॥ इति । गौडमार्गनिर्वाहो यथाक्षुद्रः क्वायं तपस्वी क्व च वदनवनच्छेदनिष्ठयूतमन्न २५ व्याजाज्यस्फारधाराहुतिहुतहुतभुक्पच्यमानैः कपालैः । जातास्थिस्फोटभीतिप्रविघटितवलद्वामपार्श्वप्रवेश क्लाम्यत्सव्येतरार्धाकुलितहरहठाकृष्टखनो दशास्यः ॥४१७॥ 1. A. B. drop प्रचुर सम बन्धेष्वविषमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy