SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाह ९५) माधुर्योजःप्रसादास्त्रयो गुणाः ॥१॥ ___त्रयो न तु दश पञ्च वा । लक्षणव्यभिचारादुच्यमानगुणेष्वन्तर्भावात् । दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः, शब्दार्थयोऽस्तु भक्त्या-इत्युक्तमेव ।। न तु दश पञ्च वेति । अयं भावः-माधुयौंजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति प्राक् सामान्यगुणलक्षणे निर्णीतम् । ततश्चैते शब्दार्थाश्रयत्वेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन्न युक्तमिति । तथा हि(88) 'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः' दश इति केचित् । [ का. लं. सू. अधि. ३. अ. १. सू. ४. ] तत्र (89) ' अवगीतस्य हीनस्य वा वस्तुनः शब्दार्यसम्पदा यदुदात्तत्वं १५ निषिञ्चन्ति कवयस्तदोजः' इति भरतः। [ यथागोमायवः शकुनयोऽत्र शुनां गणोऽत्र लुण्ठन्ति कीटकृमयः परितस्तथैते । त्वं सम्पदं सकलसत्त्वकृतोपकारां नो दृष्टवान् यदपि तच्छव बञ्चितोऽसि ॥ ४०२ ॥ [ (90) अनवगीतस्याहीनस्य वा वस्तुनः शब्दार्थयोरर्यसम्पदा यदनुदात्तत्व निषिञ्चन्ति कवयस्तर्हि तदनोजः स्यादिति मङ्गलः [ + In the texts of ना. शा. (C. S. S. & N. S.) ओजः is described as follows: अविगीताविहीनोऽपि स्यादुदात्तावभावकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकिर्तितम् ॥ ___ अ. १७. लो. १०३ (C. S. S. ) समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सा तु स्वरैरुदारैव तदोज: परिकीर्त्यते ॥ भ. १६. लो. ९९ ( N. S.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy