________________
२७३
९२-९३-९४)अ. ३ स. ८-९-१०] काव्यानुशासनम् परिवृत्तोऽनुवादो विधिना यथाप्रयत्नपरिबोधितः स्तुतिभिरथ शेषे निशां अकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाध दोःशालिनां अपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥४२०॥
1 [वे. सं. अं. ३. श्लो. ३४ ] अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरक्तः ।
प्रयत्नेन परिबोध्य स इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थबलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रतीतम् । अथापवादानाह
९२) नानुकरणे ॥८॥
दोषा इत्यनुवर्तते। अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव दर्शितम् ।
९३) वाद्यौचित्ये च ॥ ९ ॥ वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिना न दोषो न गुणः। तथोदाहृतम्।
९४) क्वचिद् गुणः ॥१०॥
वक्त्रायौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इति । आचार्यश्री हेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपन
काव्यानुशासनवृत्तौ दोषविवेचनस्तृतीयोऽध्यायः ॥
२०
1. L
मिति
2. प्रणीतं
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org