SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२ S १५ && २५ [ ९१) अ. ३ काव्यानुशासनम् वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मान से ऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः |४१६ । [ भोजप्रबन्ध. लो. २३० ] अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । परिवृत्तं सामान्यं विशेषेण यथा कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४१७ ॥ [ भलट. श. लो. ६२ ] अत्र 'एकेन किं न विहितो भवतः स नाम ' इति सामान्ये वाच्ये कौस्तुमेनेति विशेष उक्तः । परिवृत्तो विशेषः सामान्येन यथा - श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैः मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ ४१८ ॥ [ वि. मं. अ. ३. लो. १] अत्र ज्योत्स्नामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्तम् । परिवृत्तो विधिरनुवादेन यथाअरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोsहं मोहं लथ कथय क्वेन्दुवदना ॥ ४१९ ॥ [ अत्र विधौ वाच्ये विरहिप्राणदमनेति-अनुवाद उक्तः । ७ Jain Education International For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy