________________
९१) अ. ३ स. ७] काव्यानुशासनम् क्वचिद्गणः, यथा
प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥४०॥
[भ. वै. श. श्लो. ६७] अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत शान्तरसपोषाय । यदाह(30) वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् ।
यत्पदमसकृते तस्पुनरुक्तं न दोषाय ॥ इति
उचितसहचारिभेदो भिन्नसहचरत्वम् , यथाश्रतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन वालक्रियते नरेन्द्रता।।४०१
अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोर्भिनत्वम् ।
विरुद्धं व्यङ्गचं यस्य तद्भावो विरुद्धव्यङ्गयत्वम् , यथा-- लग्नं रागावृताङ्गयः । ४०२ । [
] इति । अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते। २० प्रसिद्धया विद्याभिश्च विरुद्धत्वम् । तत्र प्रसिद्धिविरुद्धत्वं यथाइदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तदुःसाध्यक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥४०३॥
1. L. तामयेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org