________________
२६५
९०) अ. ३. सू. ६ ] काव्यानुशासनम्
अत्राश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् । तथाछायामपास्य महतीमपि वर्तमानामागामिनी जगृहिरे जनतास्तरूणाम्।३८५
[शि. व. स. ५. श्लो. १४ ] अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य । तथा
___ 'पायात्स शीतकिरणाभरणो भवो वः' ।३८६। अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेध्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य । तत्र पौनरुक्त्यमेव नास्ति । यथा
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युतिं किं मम धन्विनोऽन्ये ।३८७१ .
[कु. सं. स. ३. श्लो. १०] अत्र हरशब्दस्य । अथ यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्तरेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति । नैवम् । सप्तम्युत्तमनिर्देशेनैवास्मदर्थस्य विशेष्यस्य प्रतिपादितत्वात् । एवं धनुादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुक्त्यम् । यदाह-(28) 'धनुर्ध्याशब्दे धनुःश्रुतिरारुढेः प्रतिपत्त्यै' [
] इत्यादि । यथा'धनुर्व्याकिणचिडून दोष्णा विस्फुरितं तव' ।३८८ अत्र धनुःशब्दादारूढेः प्रतिपत्तिः । दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।३८९।
] २. धनुःशब्दादिति । अन्यथा ज्याकिणचिडून दोणेत्युक्तेऽनवरतहडाकर्षणाहितकिणमण्डितत्वं दोष्णो न प्रतीयते । वेष्टयमानेऽप्यनया ज्यया कृतकिणचिह्नत्वस्य संभवात् ।
1. I. drops अत्र 2. L drops from बहुवचनार्थस्य to इत्यस्य 3. I. adds बहुवचनार्यस्य. 4. I. विशेषस्य 5. C. प्रतीयत
Jain Education International
For Private &Personal.Use Only
www.jainelibrary.org