SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ९१) अ. ३. सू. ७] काव्यानुशासनम् २६३ ___ अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङति। न हि परस्येत्यनेन संबन्धो योग्यः । यथा च -- गृहीतं येनासीः परिभवभयानोचितमपि प्रभावावस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान तु भयाद् विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥३७६॥ 1 [वे. सं. अं. ३. श्लो. १९] यत इति तत इत्यत्रार्थे । अत्र शस्त्रमोचनं हेतुमाकाइति । यत्र त्वाकाड़ा नास्ति तत्र न दोषः । यथा चन्द्रं गता पद्मगुणान्न मुड़े पमाश्रिता चान्द्रमसीमभिख्याम् । १० उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥३७७॥ [कु. सं. स. १ श्लो. ४३] अत्र रात्रौ पद्मस्य संकोचो दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति न भुङ इति हेतुं नापेक्षते । संशयहेतुत्वं सन्दिग्धत्वं यथामात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । . रम्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् । [भ. शृ. श. श्लो. ३६] अत्र प्रकरणान्यभावे सन्देहः । शान्तशृङ्गारयोरन्यतराभिधाने तु निश्चयः । प्रधानस्यार्थस्य पूर्व निर्देशः क्रमस्तदभावोऽक्रमत्वम् , यथाहेतुमाकाइतीति । तेन निर्हेतुः पृथग् न वाच्यः साकङ्क एवान्तर्भावादिति । १५ 1. येनानीः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy