________________
२६२
काव्यानुशासनम् [९१) अ. ३. सू. ७ अनणुरणन्मणिमेखलमविरतसिञ्जानम मञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥३७१॥
[रुद्रट का. लं. अ. २. श्लो. २२-२३] अत्र वर्णसावर्ण्यमानं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्य५ पुष्टार्थत्वम् । पूर्वापरण्याघातो व्याहतत्वं यथा
जहि शत्रुकूलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥३७२॥
अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः । भवैदग्ध्यं ग्राम्यत्वं यथास्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ॥३७३॥
व्रीडादिव्यञ्जकत्वमश्लीलत्वं यथाहन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुनतिः ।। ३७४ ॥
एतद्वाक्यं खलेषु प्रयुज्यमानं सेपसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः । साकाङ्गत्वम् , यथा
अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिविरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विश्रेसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥३७५॥
[म. च. अं. २. श्लो. ९. ] स्वपितीति । निद्राति । स्वपिमीति कामये । 1. I. सेफसि. शे is written over से
Jain Education International
For Private & Personal Use Only -
www.jainelibrary.org: