________________
९१) अ. ३ सू. ७ ] काव्यानुशासनम्
२६१ कल्पनाद विरुद्धत्वेऽपि सन्ध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद् गुणत्वम् ।
अथार्थदोषाः
९१) कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसन्दिग्धाक्रमपुनरुक्तसहचरभिन्नविरुद्धव्यङ्गयप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य ॥७॥ दोषा इति वर्तते । कष्टावगम्यत्वात्कष्टत्वमर्थस्य, यथा
सदामध्ये यासाममृतरसनिष्पन्दसरसं सरस्वत्युद्दामा वहति बहुमायां परिमलम् । प्रसादं ता एता घनपरिचयाः केन महतां महाकाव्यव्योम्नि स्फुरितरुचिरायां तु रुचयः ॥३६८॥
यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योम्नि सर्गबन्धलक्षणे परिचयमागताः । कथमभिनेयकाव्यवत्प्रसादं यान्तु । तथा यासामादित्यप्रभाणां मध्ये १५ त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः । प्रकृतानुपयोगोऽपुष्टार्थत्वम् , यथा
तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् । फालेन लश्यामास हनुमानेष सागरम् ॥३६९॥ [ ]
अत्र तमालश्यामलत्वादयोऽनुपादानेऽपि प्रकृतमर्थ न बाधन्त २० इत्यपुष्टाः। यथा वानुप्रासे--
भण तरुणि रमण मन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥३७०॥ 1. P. L. दोष 2. L. विद्यते 3. P. L. घनपरिचया 4. I. मलादयो L तमालत्वानुपादाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org