SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. ८ ] काव्यानुशासनम् उच्चैर्वृत्ति सपुष्करव्यतिकरं संसारविष्कम्भकं । भिन्द्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥ २० ॥ [ 1 अर्थशास्त्रनैपुण्यं यथा मुद्राराक्षसनाटके । कामशास्त्रनैपुण्यं यथा अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तब सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ २१ ॥ [ कु. म. छो. ४०३ ] योगशास्त्र नैपुण्यं यथा— पृथुशास्त्रकथाकन्थारो मन्थेन वृथात्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैज्योंतिरन्तरम् ॥ २२ ॥ [ चित्रभारत आदिग्रहणादायुर्वेदशास्त्र नैपुण्यं यथा अङ्गे चन्दनपङ्कपङ्कजबिसच्छेदावलीनां मुहुः तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः 2 श्वासासंबृतसारहाररुचयः संमिश्रचीनांशुका 3 जातः प्रागनिदान वेदनमहारम्भः स तस्या ज्वरः ॥ २३ ॥ [ पद्यकादम्बरी ज्योतिःशास्त्रनैपुण्यं यथा यामालोकयतां कलाः कलयतां छायां समाचिन्वतां क्लेशः केवलमङ्गुलीर्गणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः ॥ २४ ॥ [ विद्यानन्दस्य गजलक्षणनैपुण्यं यथा- कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवान शङ्खच्छत्रविराजिराज्यविभवद्वेषी निलीमेक्षणः । 1. A. B. ●तरंतणम्. 2 A. B. तारहार 3 A. B. ज्ञातः A. B. often confuse ज and ज्ञ Jain Education International For Private & Personal Use Only ] ] 1 १० १५ २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy