SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६ ] अथ- काव्यानुशासनम् योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ ३५९ ॥ [ 1 इत्यादौ इदमदः प्रभृतयः शब्दास्तच्छन्दार्थमभिदधतीत्युच्यते । तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते । अव्यवहितत्वे हि प्रत्युत तदितराकाङ्का भवत्येव । यथा Grand 'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते । " तदाचष्टे लोक: । ३६० । इत्यत्र, 'सोऽयं वटः श्यामः' इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो १० य इत्यादौ च । अथ 'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षता क्षतायुष्मान् ' । ३६१ । [ 1 २५९ इत्यादावव्यहितत्वेऽपि दृश्यते । तर्हि, अत्रैव भिन्नविभक्तिकानां सोऽस्त्वित्यलम् । यथा वाकिं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमध्यार्यानुजोऽसौ गुरुः माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥३६२॥ अत्रार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरेष्वप्युदाहर्यम् । विरुद्धबुद्धिकृत्त्वं पदस्य, यथा- Jain Education International 1 (84) यत्रैककर्तृकानेका प्राधान्येतरभाक्किया । तत्राख्यातेन वाच्याया शत्राद्यैरपरा पुनः ॥ [ इत्यन्तरश्लोकः । 1 अयं च समासासमासविषयः सूक्तरत्नपरीक्षाव्यसनैकरसिकतया पदवाक्यविवेकानवधारणेन प्रदर्शितोऽपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ For Private & Personal Use Only १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy