________________
९०) अ. ३ सू. ६]
काव्यानुशासनम् .
तो विधेयानुवाद्यत्वविवक्षेकनिबन्धनौ । सा समासेऽस्तमायातीत्यसकृत्प्रतिपादितम् ॥ अत एव हि वैदर्भी रीतिरेकैव शस्यते । यतः समाससंस्पर्शस्तत्र नैवोपपद्यते ॥ संबन्धमात्रमर्थानां समासो यवबोधयेत् । नोत्कर्षमपकर्ष वा ॥ यथासाक्षितापगलितेन्दुसुधालवाक्त
जीवत्कपालचयमुक्तमहाट्टहासम् । संत्रस्तमुग्धगिरिजावलिताङ्गसङ्ग
हृष्टं वपुर्जयति हारि पिनाकपाणेः ॥ ३९५ ॥
वाक्यात्तभयमप्यदः । यथा
न्यकारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसबलं जीवत्यहो रावणः । धिग् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गप्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥३९६॥ इति । .
[ हनुमन्नाटक. अं. १४ ] तथा हि-मम अरय इति बहुवचनेन शत्रुशत्रुमद्भावो ममानुचित इति संवन्धानौचित्यं क्रोधविभावो व्यज्यते । तपो विद्यते यस्येति पौरुषकथाहीनत्वं २० तद्भितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता तस्यां च स कर्ता। अपिशब्देन मानुषमात्रकः । अत्रैवेति मदधिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति । तदिदमसंभाव्यमुपनतमिति पुरुषकारासंपत्तिह्मन्यते । रावण इति येन इन्द्रपुरविमर्दनादि किं किं न कृतमिति । धिग्धिगिति निपातेन शक्रजितमित्युपपदसमासेन सह कृता च शक्र जितवानित्याख्यायिकेयमिति व्यज्यते । स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यजकत्वम् । ग्रामटिकेति स्वार्थिकतद्भितप्रयोगेण स्त्रीप्रत्ययसहितेनाबहुमानास्पदत्वं व्यज्यते। विलुण्ठनशब्दे विशम्दस्योपसर्गस्य निर्दयावस्कन्दव्यजकत्वम् । वृथाशब्देन स्वात्मपौरुषनिन्दा व्यज्यते। ३०
1. N. ऊर्धा 2. A. drops सङ्ग 3. A. drops one शत्रु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org