________________
२५६
काव्यानुशासनम्
[९०) अ. ३ सू. ६
कृतानां त्रयाणामप्येकस्यैव विवक्षाकृतस्य प्राधान्यस्य बलीयस्तया तयोः समशीषिकाभावात् । तदिदमत्र तात्पर्यम् । यत्कथञ्चिदपि प्रधानतया विवक्षितं न तनियमेनेतरेण सह समासमर्हतीति । इतरच विशेष्यमन्यद्वास्तु न तत्र नियमः, तेन द्वन्द्वपदानां सरूपाणां च पदार्थानामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येक क्रियाभिसम्बन्धोपगमलक्षणं प्राधान्य विवक्ष्येत तदा तेषामपि समास एकशेषश्च नेष्यत एव । यथा
किमजनेनायतलोचनाया हारेण कि पीनपयोधरायाः । पर्याप्तमेतन्ननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च । ३९१ । [ ]
अत्र रूपादीनां प्रत्येकं मण्डन क्रियाभिसम्बन्धकृतं प्राधान्य रत्युद्दीपनपर्यव१. सायि विवक्षितमिति न तत्तेषां समासेऽवसादितम् । यथा च
यान्त्या मुहुर्वलितकन्धरमाननं तद्
आवृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाद निखात इव मे हृदये कटाक्षः ॥३९२ ॥ इति ।।
[ मा. मा. अं. १. श्लो. ३२ ] एकशेषे यथा
प्राप्तावेकरथारूढी पृच्छन्तौ वामितस्ततः । कश्च कश्च स कर्णारिः स च करो वृकोदरः ॥३९३॥ इति ।
[वे. सं. अं. ५. श्लो. २५ ] प्रत्युदाहरणमेतदेव कृतैकशेषमवगन्तव्यम् ।
यत्र पुनरेष प्रधानेतरभावो न विवक्षितः स्वरूपमात्रप्रतिपत्तिफलश्च विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा
स्तनयुगमश्रुस्नातं समीपतरवर्तिहृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥३९४॥
[ काद. श्लो. २१. पृ. २६ ] - इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संबन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्षयोगः कश्चिद्विवक्षितः, अपि तु तत्संबन्धप्रतीतिमानं तच व्रतमिव भवदरिवधूस्तनद्वयमित्यतः समासादपि तुल्यमेव । यथा चात्रैव रिपुस्त्रीणामिति रिपुसंबन्धमात्रप्रतीतिः स्त्रीणामिति ।
(81) विनोत्कर्षापकर्षाभ्यां स्वदन्तेऽर्था न जातुचित् । . तदर्थमेव कवयोऽलङ्कारान् पर्युपासते । [ 1. N. °लंकारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org