________________
९०) अ. ३ सू. ६]
काव्यानुशासनम्
२५५
ष्याणां च शाब्दे प्राधान्येऽप्यार्थों गुणभावोऽप्यनूद्यमानत्वात् , समासे च विभक्तिलोपान्नोत्कर्षापकर्षावगतिरिति न तन्निबन्धना रसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधेयांशत्वं दोषतयोक्तमिति । अव्ययीभावे यथा
सा दयितस्य समीपे नावस्थातुं न चलितुमुत्सहते । ह्रीसाध्वसरसविवशा स्पृशति दशां कामपि नवोढा ॥३८९॥
1
इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषण तत्तस्य सुकृतशतलभ्यतालक्षणमुत्कर्षमादधद्रतेरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षितत्वानोपदयितमितिवत् समीपार्थे नाव्ययेन सह समासेऽवसादं गमितम् । प्रत्युदाहरणं तु 'मध्येव्योम' इत्यादि प्रदर्शितमेव । अनेनैव न्यायेन कृत्तद्धितवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः । तत्राप्युक्तक्रमेण प्राधान्येतरभावविवक्षाविशेषात् । तयोरुदाहरणं यथा
यः सर्व कषति खलो बिभर्ति य: कुक्षिमेव सत्यतिथौ ।
यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि तेऽर्हन्ति ॥३९०॥ इत्यत्र सर्वादीनां कषणादिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाधायितया प्राधान्येन विवक्षितत्वान्न तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षाबद्धकक्षाणां बोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात् । खलाः खलु दम्भादिदोषरोपणेन तदपि तेषां कषन्त्येव । कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाच्च । विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिकर्तृष्वकार्यकारितयापराधातिरेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा । शीर्षच्छेदस्य च शारीरेषु निग्रहेषु तदतिरिक्तस्यान्यस्यासंभवात् । यथा च'रामोऽस्मि सर्व सहे' इति । उचितकारित्वं प्रति किमुच्यते रामभद्रस्य । दशरथस्य हि प्रसूतिरसाविति च । प्रत्ययोत्पत्तौ पुनर्यग्भूतसर्वादिकर्मभावः २५ कषणादिषु कत्रंश एवोन्ममतया प्रकाशेत न कौशस्तत्रैव प्रत्ययोत्पत्तः । वाक्ये तु यद्यपि शब्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीतिः, तथापि तत्रान्यो विवक्षाकृतः साधनानामपि स प्रतीयत एव । न चैकस्मिन्नेव वाक्ये द्वयोः साध्यसाधनयोर्युगपत्प्रधानभावोऽनुपपन्न इति शक्यं वक्तुम् । शब्दार्थसामर्थ्यविवक्षा
1. A. drops सु 2. A. कक्षाबद्भकक्षाणां C. कक्षाबद्धकक्षायाणां 3. B. 'रोपणन. C. रोरोणने. N. °रोपण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org