________________
२५४
काव्यानुशासनम्
[९०) अ. ३ सू. ६
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ ३८३ ॥
[ र. व. स. १. लो. ८ ] अत्र शैशव इत्यादीनि यान्यभ्यस्तविद्यत्वादीनामधिकरणभावेन विशेषणानि ५ तानि तेषामितरान्वयवैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्य नय
विनयादिसंपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तैः सह समासे समशीर्षिकां नीतानि । प्रत्युदाहरणं यथा
रेणुरक्तविलिप्ताङ्गो विकृतो व्रणभूषितः । कदा दुष्प्रत्यभिज्ञातो भवेयं रणभूषितः ॥३८४॥
संबन्धस्य यथाद्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ॥३८५। इति ।
अत्र कपालिन इति यत्समागमप्रार्थनायाः शोचनीयतागतौ हेतुत्वेनोपातायाः संबन्धिद्वारेण विशेषणं तत्तस्यास्तत्र यत्सामर्थ्य तत्सुतरामुपबंहयति । तस्य सकलामङ्गलनिलयतयानिन्दिताचारनिरतया च दर्शनस्पर्शनसंभाषणादीनामपि प्रतिषिद्धत्वात् । अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे प्रत्यधरीकृतम् । यथा च
'स्कन्दस्य मातुः पयसां रसज्ञः' ।३८६। [र. वं. स. २. श्लो. ३६] इति । 'कः क्षमेत तवानुजः' १३८७ [
] इति। प्रत्युदाहरणं तु 'किं लोभेन विलडितः-' इति दर्शितमेव । यथा च
जयाशा यत्रास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥३८८॥ इति ।
[ कु. सं. स. २. लो. ४९ ] अत्र हि हरेः संबन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्यविषक्षा न चक्रमात्रस्य । तच्च तस्य समासेऽस्तमुपगतम् । विभक्त्यन्वयव्यतिरेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणान्तरसिद्धस्वोत्कर्षापकर्षाधायिनां शाब्दे गुणभावेऽप्यार्थ प्राधान्यम् । विशे
1. N. निरततया. 2. A. B. drop च 3. A. B. विषयतत्वगतिः 4. N, सिद्धत्वोत्कर्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org