________________
९०) अ. ३. सू. ६]
काव्यानुशासनम्
२५३
प्रत्युदाहरणं यथाधात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥३७८॥इति।
संप्रदानस्य यथापौलस्त्यः स्वयमेव याचत इति श्रुत्वा मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्वा द्विजेभ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥३७९॥
[ बा. रा. अं. २ श्लो. २० ] अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृफस्य महींदानस्य संप्रदानत्वेन यद्विशेषणं तन्मयाः पात्रसात्करणेनोत्कर्षमादधद भार्गवशौर्यातिरेकाभिव्यञ्जनेन दशा- १० ननस्य क्रोधोद्दीपनपर्यवसायि भवतीति प्राधान्येन विवक्षितत्वान दत्तेत्यनेन सह समासे कविना विच्छायीकृतम् । प्रत्युदाहरणमेतदेव पूर्ववद् द्रष्टव्यम् ।
अपादानस्य यथा-- ताताजन्म वपुर्विलचितवियत् क्रौर्य कृतान्ताधिक शक्तिः कृत्स्नसुरासुरोष्मशमनी नीता तथोच्चैः पदम् । सर्व वत्स तवातिशायि निधन क्षुद्रात्तु यत्तापसात् तेनाहं त्रपया शुचा च विवशः कष्टां दशामागतः ॥३०॥
१५
अत्र तातादिति क्षुद्रात्तु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य पितामहपितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापर्षद्वारेण तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापकर्ष चादधाने भ्रातुर्दशाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्राधान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते । प्रत्युदाहरणं यथा-अत्रैव ' क्रौर्य कृतान्ताधिकम् ' ३८१। [ ] इति । यथा च
'आसमुद्रक्षितीशानाम् ।३८२। [ र. वं. स. १. श्लो. ५ ] इति ।
अधिकरणस्य यथा1. A. drops करणेनो 2. A. drops one पितामह. C. पिता. महस्य पिता
२५
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org