________________
२४०
काव्यानुशासनम् [९०) अ. ३. सू. ६ परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य, यथा-- अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते कदा ॥३३३॥ अत्र काार्थ्यमिति ।
वाक्यस्य, यथा
अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।३३४। अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि ।
वक्त्राद्यौचित्ये गुणः, यथा दीधीवीड्समः कश्चिद् गुणवृद्धयोरभाजनम् ।
]
कित्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते नते ॥३३५॥ [ अत्र वैयाकरणो वक्ता। यदा त्वामहमद्राक्षं पदविद्याविशारद । उपाध्यायं तदा स्मार्ष समस्प्राक्षं च संमदम् ॥३३६॥
अत्र वैयाकरणः प्रतिपाद्यः । मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुका सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिमारैः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥३३७॥
अत्र सिंहे वाच्ये परुषाः शब्दाः । अन्त्रप्रोतबृहत्कपालनलकारक्वणत्कङ्कण
प्रायप्रेखितभूरिभूषणरवैराघोषयन्यम्बरम् । 1. I. L. P क्षित् . कित् 2. I. L. विशारदः 5. L. P. प्रषित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org