SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३७ ९०) अ. ३ सू. ६] काव्यानुशासनम् सन्दिग्धत्वादसमर्थत्वम् । पदस्य, यथा--- आलिङ्गितस्तत्र भवान् संपराये जयश्रिया । आशी:परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ।। ३१९ ॥ ५ अत्र वन्द्यां किं हठहृतमहेलायां किं नमस्यामिति सन्देहः । यथा वा कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥३२०॥ [ ] अत्र भूतपूर्वेपचरडिति चरट्प्रत्यये किं पूर्व साधुरुत साधुषु चरतीति सन्देहः । क्वचिद् गुणः, यथा--- पश्याम्यनङ्गजाताङ्कलचितां तामनिन्दितां । कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥३२१॥ अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्द उत मृत्युवाचीति सन्देहकारीदं वचनं युवानमाकुलीकतुं प्रयुक्तमिति । १५ वाक्यस्य, यथा सुरालयोलासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ ३२२ ॥ अत्र किं सुरादिशब्दो देवसेनाशरविभूत्यर्थ उत मदिराद्यर्थ २० इति सन्देहः । 1. L. नान्नयतेतराम् 2. L. drops उत साधुषु 3. I. नन्दितां 4. I. विलोक्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy