________________
२३६
काव्यानुशासनम् [९०) अ. ३ सू. ६ विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥३१६॥[ ]
अत्र विभजतिर्विभागार्थः सेवने, आलभतिर्विनाशार्थो लाभे, आवहतिः करोत्यर्थो धारणे, प्रस्मरतिर्विस्मरणार्थः स्मरणेऽवाचकः ।
कल्पितार्थत्वादसमर्थत्वम् । पदस्य, यथाकिमुच्यतेऽस्य भूपाल मौलिमालाशिरोमणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥३१७॥ [ ]
अत्र वचःशब्देन गीःशब्दो लक्षित इति कल्पितार्थत्वम् । अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जल१० ध्यादौ तृत्तरपदमेव । वडवानलादौ तु पूर्वपदमेव । यदाह
(26) निरूढा लक्षणाः काश्चित्काश्चिन्नैव त्वशक्तितः ।
क्रियन्ते सांप्रतं काश्चित् काश्चिन्नैव त्वशक्तितः ॥ इति । वाक्यस्य यथा
सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ।३१८।
पहिरिति दशसंख्या लक्ष्यते, विहंगमोऽत्र चक्रस्तन्नामभृतो रथा दश रथा यस्य तत्तनयो रामलक्ष्मणौ । उलूकजिता इन्द्रजिता। कौ. शिकशब्देन इन्द्रोळूकयोरभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः ।
3. I. मालामहामणे:
1. L. ऽवधारणे 2. I. °दसमर्थ० 4. L. drops from कल्पितार्थत्वा° to इति 5. P does not give the second line.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org