________________
२३४
१०
१५
२०
काव्यानुशासनम् [ ९०) अ. ३ सू.
६
2
( 25 ) मञ्जीरादिषु रणितप्रायान् पक्षिषु च कूजितप्रभृतीन् ।
3
मणिप्रायान् सुरते मेघादिषु गर्जितप्रायान् ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायास्तथा प्रयुञ्जीत । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि । [ रु. का. लं. ६.२५-२६ ]
1
Jain Education International
क्वचिद्रण:, यथा-
आशु तिवतीष्टकरा नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥३१० ॥
4
[ शि. व. स. १०. श्लो. ६४ ] अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्
पतिते पतङ्गमृगराज निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत् परितस्तमांसि परितस्तरिरे । ३११। [ शि. व. स. ९. लो. १८ ] अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निष्प्रतिपक्षतया स्वेच्छाविहारोपपत्तेः । न तद्वन्मलिनानां तमसां पतङ्गस्य मृगपतिरूपणा
मञ्जीरादीति । आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम् । प्रायग्रहणं सदृशाथंवृत्ति क्वणिशिञ्जिगुञ्जीत्याद्यर्थम् । प्रमृतिग्रहणं वारयत्याद्यर्थम् । पुनरादिग्रहणं सिंहमृगाद्यर्थम् । प्रायग्रहणमपि ध्वनत्याद्यर्थम् ।
एवं प्रायानिति । ये शास्त्रे सामान्येन पठ्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः । तद्यथा- - हेषतिरश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, घातिर्वायौ, न त्वन्यत्र । न हि भवति पुरुषो वातीति । एवमन्यदपि बोद्धव्यम् । 1. 1. रणितप्रायं 2. 1. स्तनितमणितादि 3. I प्रभृति
4. I. तनु
N. तनू
For Private & Personal Use Only
www.jainelibrary.org