________________
२३३
९०) अ. ३. सू. ६] काव्यानुशासनम्
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्व कशिपु प्रचक्षते ॥ ३५१ ॥
अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवाचकम् । यतोऽत्र हिरण्यशब्दः कशिपुशब्दश्चाभिधेयप्रधानौ वा स्याताम् , स्वरूपमात्रप्रधानौ वा । तत्र न तावदभिधेयप्रधानावनभ्युपगमात् , अर्थस्यासमन्वयात् । नापि स्वरूप- ५ मात्रप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानुकारः प्रख्यानक्रियाकर्मभावेनाभिहितो भवति । द्विविधो हि शब्दानुकारः। शाब्दत्वार्थत्वभेदात् । तत्रेतिना व्यवच्छेदे शाब्दः प्रसिद्ध एव । अर्थादवच्छेदावगतावार्थः । यथामहदपि परदुःखं शीतलं सम्यगाहुः ॥ ३५२ ॥
.] १० इह चायमार्थोऽनुकार इतिनानवच्छेदात् । केवलं यत्तस्याभिधानमनुकार्य सन्नानुकृतम् । यच्चानुकृतं तत्तस्याभिधानमेव न भवति । लोके हि हिरण्यकशिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्यावाचकत्वम् । यथा वाक्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ॥ ३५३ ॥
] १५ इत्यत्र हि कल्पवृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम् । यतो विशेषणमिदमभिधानस्वरूपविषयमेवावकल्पते । नाभिधेयविषयम् , सोपपदत्वनिरुपपदत्वयोरभिधानधर्मत्वात् । न च तेन विशेषितेन किश्चित्प्रयोजनम् । अभिधानमात्रादनभिमतार्थसिद्धः । अभिधेयविषयत्वे च तत्सिद्धिर्भवेत् , किंतु न तत्र यथोक्तविशेषणसंबन्धः संगच्छते । यत्र च संगच्छते न ततोऽभिमतार्थसिद्धिरिति अवाचकत्वादसमर्थमेवेति । तस्माद्वरमयमत्र पाठः 'क्षुण्ण यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति ।' अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्पद्रुमाणां चावज्ञावगतौ गुणान्तरलाभः । एवम्दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं प्रचक्षते ॥ ३५४ ॥
[ र. वं. सं. ८. लो. २९ ] २५ इत्यादावपि द्रष्टव्यम् । 1. N. °स्यासमुच्चयात् 2. A. शाब्दत्वार्थत्वे भेदात् 3. A. विशेषेण 4. A. B. C. N. have 978:-It seems to have come in the text out of marginal notes,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org