________________
२३२
काव्यानुशासमम् [९०) अ. ३. सू. ६ तद्विच्छेदरजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥३०६॥
अत्र दिनमिति प्रकाशमयमित्यत्रार्थेऽवाचकम् । यथा वा
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जमञ्जीरभृङ्गः । भर्तुर्नत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी
संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥३०७॥ अत्र दधदित्यत्रार्थे विदधदित्यवाचकम् । यथा वा
चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः । शस्त्रव्यस्तः सदनमुदधिरि यं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥३०८॥
[बा. रा. अं. २ श्लो. ३७ ] अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा चमहाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥३०९॥
[वे. सं. अं. ३ श्लो. ४.] अत्र रखो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च
मण्डकादिषु प्रसिद्ध इति । मण्डूकादीनां शब्दो रवोऽभिधीयत इत्यर्थः । यथा च
1. I. drops ar
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org