________________
९०) अ. ३ सू. ६ ] काव्यानुशासनम्
२२९ यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ २९४ ॥
[सुभा. श्लो. ४४ ] अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्चाप्रयुक्तः । वाक्यस्य यथा
तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥२९॥
अत्राधिमात्रोपायादयः शब्दा योगशास्त्रप्रसिद्धाः । कचिदणः, यथा
अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः ।
अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥ २९६ ॥ अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा । तत्र पदस्य यथासाधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् ॥२९७॥
१५
तस्याधिमात्रोपायस्येति । (72) "तथा हि नव योगिनो भवन्ति । मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधः-मृदुसंवेगः, मध्यसवेगः, तीघ्रसंवेग इति । एवमितरावपि । तत्राधिमात्रोपायानां " तीव्रसंवेगानामासन्नः ॥ [ यो द. पा. १ सू. २१ ] ॥ समाधिलाभः समाधिफल २० च भवति ॥” [यो. द. व्या. भा. पा. १ सू. २०-२१ ] संपिपादयिषया चित्तवृत्तिनिरोधसाधनानुष्ठान योऽभ्यासः “स दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः" ॥ [यो. द. पा. १. सू. १४ ] ॥ दीर्घकालेनासेवितो निश्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपादितः सत्कारवान् दृढभूमिः । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः । २५
[यो. द. व्या. भा. पा. १ सू. १४ ] अवाचकत्वादित्यनेनावाचकत्वप्रसिद्धिदुष्टत्वयोः कल्पितार्थत्वादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादित्यनेन संदिग्धत्वस्यासमर्थत्वदोषेऽन्तर्भावमाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org