________________
२२८
काव्यानुशासनम् [९०) अ. ३. सू. ६ अत्राशयशब्दो वासनापर्यायो योगशास्त्र एव प्रसिद्धः । यथा चतीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः ।
सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ॥२९१॥ अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम् । यथा वा
'सहस्रगोरिवानीकं दुःसहं भवतः परैः ' ॥ २९२ ॥
१५
अत्र गोशब्दस्याक्षिवाचित्वमभिधानकोश एव प्रसिद्धम् । कचिद् गुणः, यथा
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपश्चकम् । सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥२९३॥
[शि. व. स. २. श्लो. २८) - अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विद्यसंवादादौ गुणत्वम् । श्लेषे तु न गुणो न दोषः । यथा--
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।
अङ्गेति । कर्मणामारम्भोपायः, द्रव्यपुरुषसम्पत् , देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्भिश्चेति पञ्चाङ्गानि ।
स्कन्धेति । (71) विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।
. भिक्षूणां शाक्यसिंहेन स्कन्धाः पश्च प्रकीर्तिताः ॥ येन ध्वस्तेति। माधवपक्षे-येन ध्वस्तं बालक्रीडायाम् । अनः शकटम् । अभवेन असंसारेण । बलिं जितवान् । यः कायः स पूर्वममतहरणे स्त्रीत्वं नीतः। उद्वत्तं भुजंग कालियाख्य पीडितवान् । खे शब्दब्रह्मणि लयः समाप्तियस्य । अगं गोवर्धनगिरि गां च योऽधारयत् । शशिनं मध्नाति यो राहुस्तस्य शिरोहरः । अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः । उमाधवपक्षे तु-बलिजित्कायो विष्णुदेहस्त्रिपुरवधेऽस्त्रीकृतः शरतां नीतः। भुजङ्गाः सर्पाः शशियुक्तं शिरो यस्य तथाभूतो हरः । यदि वा शशियुक्तं शिर आहुर्नाम च हर इति । अन्धकाख्यो दैत्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org