________________
२२५
८९) अ. ३. सू. ५] काव्यानुशासनम् शास्त्रीयो न्यायः काव्येषु न युक्तः। यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते न तत्रैतद् दूषणम् । यथा
वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥२७९॥
चन्द्रमिव सुन्दरं मुखं पश्यति ॥२८०॥ [
] तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ २८१ ॥ इति
१०
यत्रापि गम्यमानं साधारणधर्माभिधायिपदं तत्रापि न दोषः । यथा-चन्द्र इव मुखं, कमलमिव पाणिः, बिम्बफलमिवाधर इत्यादि।
कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावप्यनन्वितस्यैव विषयः । यथा
अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुदती । पश्चिमाद्यामिनीयामा प्रसादमिव चेतना ॥२८२॥
[र. वं. स. १७. श्लो. १] अत्र चेतना प्रसादमानोति, न पुनरापेति कालभेदः।
प्रत्यग्रमजनविशेषविविक्तमूर्तिः ___ कौसुम्भरागरुचिरः स्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥२८३॥
[र. अं. १. श्लो. २०] असदृश इति । टगन्तत्वादेकवचनान्तम् । क्विवन्तत्वाद्बहुवचनान्तं च । मधुरतया भृतो धृतः । तां च बिभ्रति ।
दधते इति । 'दधि धारण' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् ।
२०
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org