________________
२२४
काव्यानुशासनम् [८९) अ. ३. सू. ५ यैरित्यत्र विशेष्यस्याप्रतीतिः । ' क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः । यथा वा उपमायाम्
वापीव विमलं व्योम हंसीव धवलः शशी । शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥२७७॥
तथासरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥२७॥
अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसदृश्यादुपमानेन न सम्बध्यत इत्यनन्वितम् । यदि च लिङ्गवचसोर्विपरिणामादुषमानेनापि संबन्धः क्रियते तदाभ्यासलक्षणो वाक्यभेदः स्यात् । एवं चाव्यवधानेन प्रकृतोऽर्थो न प्रतीयेत । विपरिणामश्च
युज्यत इति । यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पठ्यते तदा त्रयोऽपि यच्छब्दार्थाः समशीर्षिकया धावित्वा अशीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिस्वमाञ्जस्येनैव सम्बन्धमनुभवन्तीत्यर्थः । यथा वा
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिवंतो मरुत्वाननुयातलीलः ॥३५०॥
- [र. वं. स. १६ श्लो. ७१] अत्रानुयाति क्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धस्तयोः साक्षादुक्तः, सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात् । अतोऽत्र साक्षात्तत्सम्बन्धो वाच्यः । तदर्थमन्यत्कियान्तरं वा । येन कर्तृकर्मभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युक्तमित्य .
नन्वितत्वम् । तेन वरमयमत्र पाठ:--'आकाशगङ्गारतिरप्सरोभित्तोऽनुयातो २५ मघवा विलासैः' । इति ।
अभ्यासलक्षण इति । पौनःपुन्यरूपः । वाक्यभेद इति । द्वे वाक्ये स्यातामित्यर्थः । 1. I. विमल: 2. A. B. मस्यभावस्त° N. कर्तृकर्मत्वभावस्त 3. A. B. C. घटामि°
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org