________________
२२३
८९) अ. ३. सू. ५] काव्यानुशासनम्
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥२७४॥
अत्र यद्याकारः सन्निवेशलक्षणो विवक्षितस्तदा स परस्परपरिहारस्थितिमतोरथयोः सिद्ध एवेत्यनुपादेयः। अक्षरविशेषलक्षणस्तु शब्दनि यतत्वादर्थयोन संभवत्येवेत्यनन्वितत्वम् । यथा वा
निर्घातोप्रैः कुञ्जलीनाजिघांसुानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ वीर्योदने राजशब्दे मृगाणाम् ॥२७५।।
[र. वं. स. ३ श्लो. ६४ ] अत्र सिंहानां न तावद्राजशब्दः संभवति तेषां तद्वाच्यत्वामावात् तत्सम्बन्धाभावाच तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत् ? न तस्य प्रक्रान्तःवाभावात् । मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्च किं च मृगेषु राजत्वं भवति सिंहानां, न तु शब्दे इति वीर्योदग्रत्वं तद्विशेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन सिंहानां मृगाणां वीर्योदप्रत्वस्य च न राजशब्देनान्वयः संगच्छते । तेन राजभाव इति वा मृगे- १५ विति वा पाठः श्रेयान् । यथा वा
येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिलीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैत्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥२७६॥ २०
[ 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्योन्यम्' इति नियमेन बहुभिर्यदथैर्नेक एवार्थो निर्दिश्यत इति
अर्थयोरिति । कृपणकृपाणशब्दवाच्ययोः । न त्वङ्गानामिति । प्रधानानुयायित्वेन समत्वादित्यर्थः ।
२५
1. I. drops वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org