________________
२२२
काव्यानुशासनम् [८९) अ. ३ सू. ५ क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय मनाङ्गखं भवतु च द्विचन्द्र नभः ॥२७॥
[बा. रा. अं. ३. श्लो. २५] अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानाम५ तिशयो वक्तुं प्रक्रान्तो 'भवतु च द्विचन्द्रं नमः' इति सादृश्यमात्राभि
धानेन न नियूढ इति भग्नप्रक्रमत्वम् । 'भवतु तद् द्विचन्द्रं नमः' इति तु युक्तम् । तथा
तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेरिस्मतं का सुधा सा चेत्कान्तिरतन्त्रमेव कनकं ताश्चेद्गिरो धिङधु । सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥२७२।। [ बा. रा. अं. २. श्लो. १७; वि. शा भं. अं. १. श्लो.१४ ]
अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं, तस्यार्थान्तरन्यासेन वस्तुसर्गपौनरुक्त्यस्य सादृश्यपर्यवसानाद्भग्नप्रक्रमत्वम् । १५
वक्त्राद्यौचित्ये न दोष:--- व्रजतः क तात वजसीति परिचयगतार्थमस्फुटं धैर्यम् । अभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ॥२७३॥
[शि. व. स. १५. श्लो. ८७] अत्र शिशुना वजतिरेव प्रयुक्तो न च व्रजतिस्तत्रैव परिचय२० गतार्थास्फुटत्वधैर्यभेदित्वसंभवात् । केवलं शक्तिवैकल्यादेकोऽनेन नोच्चारितः।
पदार्थानां परस्परमसम्बन्धोऽनन्वितत्वम् , यथा1. I. L, drop न 2. I. °नवृद्धमन्युना 3. I. L. व्रजतिरेव, 4. L प्रयुक्ते 5. I. drops च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org