________________
८९) अ. ३ सू. ५] काव्यानुशासनम्
२२१ यथा वा व्यतिरेकालङ्कारे तरङ्गय दृशोऽङ्गणे पततु चित्रमैन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्वचित्कधिभिः प्रयुज्यमानो दृश्यते स कर्तृव्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं प्रक्रमभेदभ्रमो भवताम् । तत्र युष्मदर्थस्य यथा-'यथाह सप्तमो वैकुण्ठावतारः' इति । अत्र हि यथा त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्यत्रारोप्यैवमुक्तम् । दाशरथिं राम प्रति हि कस्यचित्समक्षमियमुक्तिः । अस्मदर्थस्य यथानाभिवादनप्रसाद्यो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भशापराधः ॥३४७॥
]. १०
इति ।
१५
अत्रापि हि नाभिवादनप्रसाद्योऽस्मीति वकध्ये पूर्ववचारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः । यथा वाअयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिगोप्तुमर्हसि ॥३४८॥
[ कु. सं. स. ५ श्लो. ४० ] इति । अत्रापि 'अहं प्रष्टुमनाः' इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम् । द्विविधो ह्यन्यशब्दार्थः । तत्र चेतनेऽन्यत्रारोपो निदर्शित एव । अचेतने तु यथा 'चापाचार्य'-इति । अत्र हि त्वं रेणुकाकण्ठबाधां कृतवान् इति त्वया बद्धस्पर्धोऽहं लज्जे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारोप्यैवमुक्तम् । यथा -
हे लकेश्वर दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविनमः स्मर नये नाद्यापि किश्चिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुाबन्धबन्धूकृतः ॥ ३४९ ॥
1 २५
अत्राप्यहं म सहिष्ये-इति वक्तव्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिणि समारोप्यैवमुक्तम् । इति ।
1. A. B. प्रासाद्यो2 A drops स्मदर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org