SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [८९) अ. ३ सू. ५ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ २६७ ।। [कु. स. स ४. श्लो. ७] अत्र कारकस्य । 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम् । यथा च--- चारुता वपुरभूषयदासां तामनुननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥२६८॥ [शि. व. स. १० श्लो. ३३ ] अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः कन्तरं च यथा प्रक्रान्तं . . तथा न नियंढम् । 'तमपि वल्लभसङ्गः' इति तु युक्तम् । तव कुसुमशरत्वं शीतरश्मित्वमिन्दो यमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगौंह्निमिन्दुमयूखैस्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥२६९॥ [अ. शा. अं. ३. श्लो. ३ ] अत्र क्रमस्य । यथा वा-- अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥२७॥ [ म. च. सं. २ श्लो, ३० ] ___ अकलितेति । अत्र ‘पादोपसंग्रहणाय' इति पूर्व वाच्यम् । एवमन्येऽपि भेदा अभ्यूह्याः । ननु कर्तृप्रक्रमभेदोऽपीह कस्मानोपदर्शितः । असंभवादिति बमः । यस्तु 1. I. यथोप्रक्रान्त 2. A. B. प्रक्रमाभेदो १५ - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy