________________
७
अ. १. सू. ८] काव्यानुशासनम् व्युत्पत्तिं व्यनक्ति
लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ॥ ८ ॥
लोके स्थावरजङ्गमात्मके लोकवृत्ते च, शास्त्रेषु शब्दच्छन्दोनशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाटयार्थकामयोगादि
लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्वयवहार- श्वाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये । रसदोषे प्रपञ्चयिष्यते । शब्देत्यादि । शद्वानुशासनं व्याकरणं ततो हि शद्वशुद्धिः । तन्नैपुणं यथा
द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः । तत्पुरुष को धारय येनाहं स्यां बहुब्रीहिः ॥ २ ॥
५
छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एष निश्चयः । तनैपुणं यथा---
उष्णिहीव संमृतौ स्याद्वं रजो गुरुः । नो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ ३ ॥
[छ. शा. अ० २ सू. ४८] अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधा- .. नलाभार्थत्वं त्वयुक्तम् , अभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमिति पदस्य संदिग्धार्थत्वमाशङ्कितम्, तन्न, सामान्येनाप्यर्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः २० स्त्रियाः पुरुषस्य वेति संशयः ।
नीविराग्रन्थनं नार्या जघनस्थस्य वाससः ।।
इति नाममालाप्रतीकमपदिश्यते । इति अपौरुषेयं वचः श्रुतिः । यथाउर्वशी हाप्सराः पुरूरवसमैडं चकमे ॥ ४ ॥
[ श. ब्रा. का. ११. अ. ५ ब्रा. १] तनैपुणं यथा
चन्द्राद्धः समभवद्भगवान् नरेन्द्र आद्यं पुरूरवसमेलमसावसूत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org