SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. ५-६-७ . प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । अस्य काव्यस्येदं प्रधान कारणम् । व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते । सा च सहजौपाधिकी चेति द्विधा । तत्र सहजामाह सावरणक्षयोपशममात्रात् सहजा ॥५॥ सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्यावरणम्, तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्रतिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म । द्वितीयामाह मन्त्रादेरौपाधिकी ॥ ६॥ मन्त्रदेवतानुग्रहादिप्रभवौपाधिको प्रतिभा । इयमप्यावरणक्षयोपशमनिमित्ता, एवं दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते । सा चेय द्विविधापि प्रतिभा व्युत्पत्त्यभ्यासाभ्यां संस्कार्या ॥ ७॥ व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ । ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ । (5) . ] उपशमफैलाद्विधाबीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तु भावाः फलान्तरमीशते जनयति खलु व्रीहेर्बीजं न जातु यवाकरम् ॥ [ इति ॥ शास्त्रेभ्य इति । चाणक्यादिप्रणीतेभ्यः । प्रकारान्तरेणापीति । मन्त्रानुष्ठानादिना । 1. I L. गुणभृतः 2. A. B. उपशमकलात् २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy