________________
अं. १. सू. ४ ]
काव्यानुशासनम्
( 4 ) शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः || द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ इति ॥ [ ] धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं रान्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् |
प्रयोजनमुक्त्वा काव्यस्य कारणमाह-
प्रतिभास्य हेतुः ॥ ४ ॥
अयमभिप्रायः– ये शास्त्रेतिहासेभ्यो ऽ लब्धव्युत्पत्तयोऽथवावश्यव्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिणः काव्यात् हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया | हृदयानुप्रवेशश्च १० ' रसास्वादमय एव । स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावायुपनिबन्धे रसास्वादवैवश्यमेव स्वरस - भाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु - वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणतौ अपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं
]
न नो गोत्रे पुत्रि ! क्वचिदपि सतीलाञ्छनमभूत् ॥ १ ॥ । इत्यादि काव्यमसदुपदेशकं दृश्यते । व्युत्पत्तिरपि च तस्मात्तादृग्विषया संभाव्यते । ततश्च तदनुपदेश्यमित्यायातम् । सत्यम् । अस्त्ययमुपदेशः, किन्तु निषेध्यत्वेन न विधेयत्वेन । य एवंविधा विधयः परस्त्रीषु पुंसां संभवन्ति तानवबुध्य परिहरेदिति कवीनां भावः ॥
एवमानन्दयशश्चतुर्वर्गोपायव्युत्पत्तीनां काव्यप्रयोजनतामसाधारणीं प्रतिपाद्य यत् कश्चित् " श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमादित्यादेर्मयूरादीनामिवानर्थनिवारणं च [ का. प्र. उ. १. ] प्रयोजनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति
""
धमकान्तिकमिति । नहि काव्याद्धनं भवत्येवेत्यनैकान्तिकत्व *
मित्यर्थः । तथा चाह—
1. A. B. नुप्रवेशरसा० 2. A इत्येव
3. A. डिम्भ्यास्त० B. डिम्भ्यस्त ० 4. C. नैकान्तिकमि०
Jain Education International
For Private & Personal Use Only
१५
२०
२५
www.jainelibrary.org