SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १० १५ २० २५ काव्यानुशासनम् अ. १. सू. ३ यशस्तु कवेरेव । यत इयति संसारे चिरातीता अव्यद्य यावत् कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराणप्रकरणादिभ्यश्च शब्दार्थयोर्गुणभावे रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवदित्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे । र्जायासंमितत्वलक्षणो विशेष इति । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं ' मुख्यफलमिति ॥ कविसहृदययोरिति । यः काव्यं कुरुते स कविः । यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे 2 वर्णनीयतन्मयीभवनयोग्यता सहृदयसंवादभाक् स सहृदयः | काव्यकर्तृत्व लक्षणपूर्वावस्थापेक्षया कविशद्वनिदेशः । यतः - कवेरपि भावकावस्थायामेव रसास्वाद : संपद्यते । पृथगेव हि कवित्वाद्भावकत्वम् । " यदाह – (2) “सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥” ] इति ॥ यशस्तु इति । यदाह- (३) अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी [ भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ [रु. का. १-२२] कवेरेवेति । न तु सहृदयस्य । प्रभुतुल्येभ्य इति । कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः । मित्रसंमितेभ्य इति । अस्येदं वृत्तममुष्मात् कर्मण इत्येवं युक्ति युक्तकर्मफलर्सम्बन्धप्रकटनकारिभ्यः । उपदिशतीति । अप्रयासेन शिक्षयति । व्युत्पत्तिं करोतीति यावत् । 1. A. B. पार्यन्तिकमुख्य ० ० 2. C. वर्णनायतन्मयी • Scribes very often do not put the top curve on long ई. 3. A. B. यथाहः 4. A. सध्वप्रकटन ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy