________________
m
अ. १. सू. २-३ ] काव्यानुशासनम् न ह्येवंविधं भुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् । अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह
शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यत्वं यथावदनुशिष्यते ॥ २ ॥ ५
शब्दानुशासने सिद्धहेमचन्द्राभिधाने विवेचिताः-असाध्वीभ्यो वाग्भ्यः पृथक्कृताः । इदानीं शब्दानुशासनानन्तरं' तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्विकेन रूपेणानुशिष्यते । वाचां हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासनकाव्यानुशासनयोरककर्तकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव . १० नारप्स्यते, शब्दानुशासनेनैव चरितार्थत्वात् । शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाह
काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ॥३॥ लोकोत्तरं कविकर्म काव्यम् । यदाह(3) प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता।
तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ।।
तस्य कर्म स्मृतं काव्यम् ॥ इति [ सद्योरसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् ।
सर्वप्रयोजनोपनिषद्भुतमिति । यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते २० सर्वत्रानन्दस्यैव साध्यत्वात् । तथाहि कवेस्तावत्कीयापि प्रीतिरेव संपाद्या । यदाह-(1) " कीर्ति स्वर्गफलामाहुः " [ ] इत्यादि । श्रोतृणां व्युत्पत्तिर्यद्यप्यस्ति तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसमितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतो
1. I. L. °नुशासनादन्तरम् 2. P. ब्राह्मास्वादसदृशी 3. A कायरूपस्य, C काव्यरूपयस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org