________________
काव्यानुशासनम् [अ. १. सू. १ (1) बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्गिणाम् । ___ अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥ -
तदेतद्गीतादिसाधारणमिति विशिनष्टि । परमार्थो निःश्रेयसं, तदभिधानशीलां परमार्थाभिधायिनी द्रव्याद्यनुयोगानामपि पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम् । एकरूपापि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । यदाह(2) देवा दैवी नरा नारी शबराश्चापि शाबरीम् ।
तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् ॥
१०
१५
. द्रव्याधनुयोगानामपीति । इहानुयोगश्चतुर्धा, चरणकरणधर्मकथागणितद्रव्यभेदात् । तत्राद्यस्य सम्याज्ञानदर्शनपवित्रिते नवकर्मानुपादानातीतकर्मनिर्जरारूपे संयमतपसी प्रतिपाद्य-इति सर्वकर्मविमोक्षलक्षणमोक्षपरत्वात् परमार्थाभिधायित्वं प्रतीतमेव । शेषाणां तु पारम्पर्येण । द्रव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात्पश्चानुपूर्व्यादावुपदेशः । तथाहि नयप्रमाणबलेन दुर्नयतिरस्कारात् स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्त्वं प्ररूप्यते। चेतनाचेतनरूपसकलद्रव्याणां योनयश्च इति वस्तुतत्त्वनिरूपणेन द्रव्यस्य, गणितबलेन सुरादीनां सर्वदेहिनामायंषि चन्द्राद्युपरागादयश्च निश्चीयन्त इत्यायुरादिज्ञानेन गणितस्य, वैराग्योपजननमितिवृत्तं प्रस्तूयत इत्यवदातकथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मकथायाः4, परमपुरुषार्थाभिधायकत्वं परम्परयारित इति ।
1 A. परेप्ता० 2 A. B. दृत्तं 3 A. B. अवदानकथनेन. त and न are written similarly.
4 A. B. कषायाः A. B. write ष for थ to which it resembies in shape in the scribes orthography. Variations in readings arising out of such peculiarities are not noticed hereafter.
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org