SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ । आचार्यहेमचन्द्रविरचितं काव्यानुशासनम् । प्रथमोऽध्यायः प्रणम्य परमात्मानं निजं काव्यानुशासनम् । आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते ।। ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्रणिधत्ते अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्धयोपादेयतामाह । उच्यत इति वाक् वर्णपदवाक्यादिभावेन भाषाद्रव्यपरिणतिः । तामुपास्महे । उपासनं योगप्रणिधानम् । अकृत्रिमस्वादून्यनाहार्यमाधुर्याणि पदानि नामिकादीनि यस्यां सा । तथा १० स्वच्छस्वादुमृदुंप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते । अथवा अकृत्रिमाण्यसंस्कृतान्यत एव स्वादूनि मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः । उक्तं हि ५ विवरीतुं क्वचिदृब्धं नवं संदर्भितुं क्वचित् । काव्यानुशासनस्यायं विवेकः प्रवितन्यते ।। .1 P, I, L. begin with अहं 2 P. °पादेयमाह 3 I, L omit मृदु 4 A. B. C. अर्ह. C. श्रीगणेशाय नमः श्रीसारदायै नमः । श्रीगुरुभ्यो नमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy