________________
८९) अ. ३ स. ५] काव्यानुशासनम्
२१५ श्रीमत्कान्तिजुषां द्विषां करतलास्त्रीणां नितम्बस्थलाद् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ २५२ ॥ अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते ।
हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव । मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥२५३॥ ५
१०
हास्यरसव्यञ्जकमेतद्वृत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम् । यथाकाय खायइ छुहिओ कूरं घल्लेइ निम्भर रुट्ठी। सुणयं गेण्हइ कंठे हक्केइ अ नत्ति थेरो ॥ २५४॥
अत्र काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वान भेषयतीति वक्तुमुचितम् । एकवाक्यतायां क्लिष्टमिति क्लिष्टाद्भेदः । क्वचिदुक्तिप्रत्युक्तौ गुणो यथा
बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतम् , खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥२५५॥
[अ. श. श्लो. ५७ ] वाक्यमध्ये वाक्यान्तरानुप्रवेशो गर्भितत्वं यथा
परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ २५६ ॥
1. I. खाइइ 2. I. कूरं घत्तेइ निज्झर 3. L. N. रुद्रो 4. I. गिन्हइ L. सुणइ गिण्हइ 5. I. निअतयं 6. I. रप्रवेशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org