________________
२१४:
१०
१५
२०
२५
काव्यानुशासनम्
[ ८९) अ. ३ सू. ५
क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थं पुनर्ग्रह - मपि तु वाक्यार्थान्तरमेव क्रियते, यथा 'प्रागप्राप्ते' इति । रोलोंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम् । यथावीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभान्विताः ॥ २४७ ॥ [
]
2
हतं लक्षणच्युतं । यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यम्, अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतवृत्तत्वम् । यथाअयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥ २४८ ॥ अत्र वैतालीययुग्मपादे लध्वक्षराणां षण्णां नैरन्तर्थं निषिद्धमिति लक्षणच्युतम् ।
एतासां राजति सुमनसां दाम कण्ठावलम्बि || २४९ ॥ कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः || २५० ॥
[
]
इत्यनयोश्चतुर्थे षष्टे च यतिर्न कृता - इति यतिभ्रष्टम् । एतदपवा दस्तु छन्दोनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते । [ छ. शा. अ. १. सू. १५ वृत्तौ ]
अमृतममृतं कः सन्देहो मधून्यपि नान्यथा । मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तर विज्जनो
J
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २५१ ॥ [ अत्र ' यदिहान्यत्स्वादु' इत्यश्रव्यम् । अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । 1. I. धीरो 2. I. प्राप्तगुरु O 3. I. स्वछन्दो 4. I. drops from " योश्चतुर्थे to नेह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org