SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ८९) अं. ३ सू. ५] काव्यानुशासनम् (21) एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यथा ॥ इति पतत्प्रकर्षत्वं यथा कः कः कुत्र न घुर्घरायितधुरीघोरो धुरेत्सुकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोवतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २४४ ॥ अत्र क्रमाक्रममनुप्रासो धनयितव्यः । पतन्निबद्धः क्वचिद्गुणः, यथा प्रागप्राप्तनिशुम्भशाम्भवधनुद्वैधाविधाविर्भवत्___ क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलत्वत्कण्ठपोठातिथिघुनानेन जगत्सु खण्डपरशुर्देवो हरः रव्याप्यते ॥२४५॥ . [म. च. अं. २. श्लो. ३३] अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति । समाप्तपुनरातत्वं यथाज्योत्स्ना लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालती मार्ला गन्धजलैमधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान् गुणान् प्रथयति श्रीवीरचूडामणे स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥२४६॥ १५ २० अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्राये पुनरुपात्तं न चमत्करोति । 1. I. विद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy