SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ११२ १० १५ काव्यानुशासनम् कष्टा वैधव्यथा नित्यं कष्टश्च वहनक्लमः । श्रवणानामलङ्कारः कपोलस्य तु कुण्डलम् ॥ २४२ ॥ [ ] अत्र श्रवणानामिति पदं पूर्वार्धं निवेशयितुमुचितम् । (20) 'नार्घे किञ्चिदसमाप्तं वाक्यम्' इति हि कविसमय: [ का. लं. सू. अधि. ५. अ. १. स. ६ ] । यथा वोत्प्रेक्षायाम् पत्तनिअंब फंसा हाणुत्तिष्णाए सामलंगीए । ܬ [८९) अ. ३. सू. ५ 1 विहुरा रुअंति जलबिंदुएहिं बंधस्स व भएण ॥ २४३ ॥ [गा. स. ६-५५. स. श. ५९६ ] अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितं तत्र प्राधान्यात् । रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम् । प्रधाने प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति । यदाह 1. I. कष्टी नित्यक्ष 4. A. B. शब्दस्य Jain Education International स्मृतिपरामर्शरूपत्वात् । स्मृतेश्वानुभूत एवार्थो विषयो नानुभविष्यमाणः । अत्र च प्रतीतिमात्रमनुभवोऽभिमतो नेन्द्रियविषयभावः । न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत । न चात्र प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम् । तत्रापि प्रतीपगमनहेतोः शाब्दस्य तदीयतीर्थाभिधानव्यवधाने सत्यन्यस्यास्थानस्थपदत्वदोषस्याविर्भावापत्तेः तेन पादयोर्विपर्ययः, शाब्दस्य च 4 हेतोर्गङ्गा विशेषणमुखेनार्थत्वमित्युभयविपर्ययोऽत्र श्रेयान् । निवेशयितुसुचितमिति । तेनार्धात रैकवाचकत्वं पृथग्दोषत्वेन न वाच्यमित्यर्थः । तदितरदिति । तस्मात्प्रधानादितरदप्रधानम् । यथाज्योतीरसाश्मभवनाजिर दुग्धसिन्धुरस्युम्मिषत्प्रचुरतुङ्गमरीचि वीचिः । वातायन स्थित वधूवंदनेन्दुबिम्ब संदर्शनादनिशमुल्लसतीव यस्याम् ॥३४१ ॥ [ 1 अत्र प्रधान उल्लसने उत्प्रेक्षितेऽप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव । 2. I. रुयन्ति 3. I. प्राधान्ये For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy