SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ४९) अ. ३ सू. ५] काव्यानुशासनम् २११ आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२३९॥ [सुभाषितावली श्लो. २५९६ ] अत्र 'इत्थं प्रोच्येवइति न्याय्यम् । तथा लग्नं रागावृताङ्गया सुदृढमिह ययैवासि यष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किश्चिद् गणयति विदितं तेऽस्तु तेनास्ति दत्ता मृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।२४०। [सुभाषितावली २५९५ हर्षदत्तस्य ] अत्र ' इति श्रीनियोगाद्' इति वाच्यम् । तथा- .. . . तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।२४१॥ - [र. वं. स. १६. श्लो. १३ ] इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोऽस्थानस्थपदत्वं दोषः । तथा अत्र हि पुनःशब्दस्तेनेत्यनन्तर प्रयोज्यः । श्रीनिंयोगादितीति । तथा चोक्तम्(70) उक्तिस्वरूपावच्छेदफलो यत्रेतिरिष्यते । न तत्र तस्मात्प्राकिञ्चिदुक्तरन्यत्पदं वदेत् ॥ उपाधिभावात् स्वां शक्ति स पूर्वत्रा दधाति हि । न च स्वरूपावच्छेदः पदस्यान्यस्य सम्मतः ॥ इति नैवेतरेषामप्यव्ययानां गतिः समा । क्षेयेत्यमेवमादीनां तज्जातीयार्थयोगिनाम् ॥ यतस्ते चादय इव श्रूयन्ते यदन्तरम् ।। तदर्थमेवावच्छियुरासमञ्जस्यमन्यथा ॥ इति । एवं चाक्रमत्वं पृथग्दोषत्वेन न वाच्यम् । अस्थानस्थपदत्व एवान्तर्भावात् । तदेति । तच्छब्दस्य हि प्रक्रान्तोऽर्थों विषय इष्टो न.प्रस्यमानः ... 1. I. सततमिह 2. A. B. प्रक्रम्यमानः : .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy