________________
काव्यानुशासनम् [८९) अ. ३.सू. ५ अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्यप्रिया न ममोर्वशी ॥२१२॥
[वि. अं. ४. श्लो. १. ] पर्यायेण यथाकुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।। ३३७॥
[ कु. सं. स. ३. श्लो. १० ] अत्र हि हरस्येति पर्यायशब्देनोपात्तस्यार्थस्य पिनाकपाणित्वं धैर्यच्युतेरशक्यकरणीयतायामार्थों हेतुः । अन्यथा हरग्रहणस्य पौनरुक्त्यं स्यादिति । यथा च
एकः शङ्कामहिवररिपोरत्यजद्वैनतेयात् ॥३३८॥ इति । सर्वनाना यथा
दृशा दग्धं मनसिजं जीवयन्ति दशैव याः ।। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ३३९ ॥
[वि. शा. भ. अं. १ श्लो, २ ] अत्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरप्यभिनहेतुकत्वोपपत्तावाथों हेतुः । इतरथा वामलोचनात्वस्य पुनरुपादानप्रसङ्गः । अत एव तृतीयः पक्षो न संभवत्येव । एकस्यैव शब्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसामर्थ्यासंभवात् । न चासावनिबन्धना शक्या कल्पयितुम् । न चैषामेकमप्यत्रोक्तमिति न्यनपदत्वमिति । वयं तु ब्रमः न हि शब्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नेवार्थ उपक्षीणत्वात्तस्याः शब्दान्तरमर्थान्तरार्थ प्रयुज्येत तदावृत्तिनिबन्धनं वा किश्चित्परिकल्प्येत । किं तु वृत्त्यन्तरमपि सहृदयैकसंवेद्यं व्यक्तिस्वभावमस्त्येव । एवं च वृत्त्यन्तरोपकल्पनायामेकस्मादेव शब्दाद्वाच्येन सहैव व्यङ्गयस्यापि प्रतीतिरनिवारितप्रसरैव । तथा हिपरमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्तं बीभत्सरसालम्बनविभावतां सूचयज्जुगुप्सास्पदत्वं ध्वनति । सम्प्रति दुर्य चेत्यतीव रमणीयम् । यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता। सम्प्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । प्रार्थनाशब्दोऽप्यतितरां रमणीयः । यस्मात्काकतालीययोगेन तत्समागमः कदाचित्र वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकोलोनकलङ्ककारिणी । सा च त्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । कलावतः कान्तिमतीति च मतुष्प्रत्ययेन द्वयोरपि प्रशस्यता प्रतीयते । 1. B. C. यथा वा
2. B. drops सं 3. A. B. drop हृदयैकस 4. B. drops साहायक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org