SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ S ८९) अं. ३. सू.५] काव्यानुशासनम् २०३ तथा--- त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ।२११॥ [वि. अं. ४. श्लो. २९ ] अत्रापराधस्य लवमपीत्यप्यर्थो वाच्यः । तथा नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूरात्कृष्टं न नाम शरासनम् । अनौचित्यादाक्षीदित्यादिक्रिया गम्यन्ते । तथा मा धाक्षीन्मा भाङ्कीमा छैत्सीज्जातुचिद्वत भवन्तम् । सुकृतैरध्वन्यानां मार्गतरो स्वस्ति तेऽस्तु सह लतया ॥३३४॥ अत्रानल इत्यादीनि कर्तृपदान्यौचित्यात्प्रतीयन्ते । एवं चानभिहितवाच्यत्वं पृथग्दोषत्वेन न वाच्यम् । धमिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्पर्याय: सर्वनाम वावश्यं वाच्यमपि नोक्तं यत्र तत्रापि न्यूनत्वमिति केचिद्वदन्ति । यथाद्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ३३५। इति । [कु. सं. स. ५. श्लो. ७१ ] अत्र हि कपालिशब्दो धमिधर्मोभयार्थवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् कपालसम्बधकृतं वा गर्हितत्वमुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिग्रहणमपरमपि कर्तव्यम् , येनास्य गर्हितत्वं प्रतीयते । द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षितार्थसिद्धावार्थों हेतुभावोऽवकल्प्येत । तत्र तेनैवोपादाने यथा सततमनङ्गोऽनङ्गो न वेत्ति परदेहदाहदुःखमहो । यमदयं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः ॥३३६॥ इति । २५ 1 I. किम° 2. I. मपीत्यर्थों. 3. I. दूराकृष्ट न तस्य 4. A. B. धर्मोनयार्थ० 5. C. सतत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy