________________
८९) अ. ३ सू. ५ ] शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा
उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः | २०५ | [ कि. स. १७. श्लो. ६३ ] अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः
'आजघ्ने' पदमसाधु |
' न दोषोऽनुकरणे ' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह ' इत्यत्र न दोषः ।
अथ त्रयोदशवाक्यदोषानाह
८९) विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि
वाक्यस्य ||५||
दोष इति वर्तते । तत्र सन्धिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसन्धित्वम् । विश्लेषाद्यथा
काव्यानुशासनम्
1
――――――
Jain Education International
कम इव लोचने इमे अनुबध्नाति विलासपद्धतिः ॥ २०६ ॥ लोलालका विद्धानि आननानि चकासति ॥ २०७॥
[
]
2
संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । ( 17 ) 'संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति हि काव्यसमयः ।
अश्लीलत्वात्, यथा-
विरेचकमिदं नृत्यमाचार्याभासयोजितम् ॥ २०८ ॥
[
विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च ।
1. P. विश्लेषोद 2. I. पादेऽर्धान्त
२६
२०१
For Private & Personal Use Only
५
१०
१५
२०
] १५
www.jainelibrary.org