________________
२००
काव्यानुशासनम् [८८) अ. ३ स. ४ स्वामिन् भवञ्चरणयोः शरणं प्रपन्नः
संसारदारुणदरेण हि कांदिशीकः ॥२०१॥
1
पदैकदेशः पदमेव तन्निरर्थकत्वं यथाआदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते काम कुरङ्गेक्षणा ॥२०२॥
अत्र दृशामिति बहुवचनमनर्थकम् । कुरङ्गेक्षणाया एकस्या एवोपादनात् । न च--
अलसवलितैः प्रेमाद्रार्दैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखलजालोलैर्निमेषपराङखैः । हृदयनिहितं भावाकूतं वद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥२०३॥
[अ. श. श्लो. ४.] इत्यादिवद् व्यापारभेदाद् बहुत्वम्, व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते । . यमकादौ निरर्थकत्वं न दोष इति केचित् । यथा-- योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥२०४॥
शि. व. स. १०. श्लो. ९० ]
1. I, श्वासानलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org