________________
८८) अ. ३ स. ४] काव्यानुशासनम्
यदुक्तम्-. . (16) अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥ इति
[ ध्वन्यालोक उ. ३.] भक्त्या शब्दार्थयोर्दोषा इत्युक्तम् । तत्र च शब्दस्य पदवाक्य- ५ रूपत्वात्प्रथमं द्वौ पददोषावाह
८८) निरर्थकासाधुत्वे पदस्य ॥४॥
दोष इति वर्तते । कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ । एवमुत्तरत्रापि योज्यम् । तत्र चादीनां प्रणार्थत्वे निरर्थकत्वं यथा
मुह्यन्मुहुर्मुहुरहं चपलाकुलाक्षः
कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि । तदेवं देशकालो व्याख्यातौ ॥ वयः शैशवादिकम् ।
जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा । आदिग्रहणाद्विद्यावित्तकुल- १५ . पात्रादयो लभ्यन्ते ।
वेषः कृत्रिम रूपम् । व्यवहारचेष्टा । आदिग्रहणादाकारवचनादयो ज्ञेयाः । वेषव्यवहारादीति देशादिमिः प्रत्येकममिसम्बभ्यते । तेन देशे वेषस्य व्यवहारस्याकारस्य वचनस्य वा, औचित्येन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम् । २० यथा कान्यकुब्जाधार्यदेश उद्धतो वेषो दारुणो व्यवहारो भयंकर आकारः परुषं च वचनमनुचितम् । म्लेच्छेषु त्वेतदेवोचितम् । तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा
परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥३३१॥
, २५
[ कि. स. ४, श्लो. १४ ] गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति । एवं कालादावप्युग्नेयम् । 1. A. B. C. कन्यकुब्ज 2. C. drops च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org