SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९६ काव्यानुशासनम् [८७) अ. ३. सू. ३ चतुरवस्थश्च ऋतुः । सन्धिः शैशवं प्रौढिरनुवृत्तिश्च । ऋतुद्वयमध्य सन्धिः। स शिशिरवसन्तयोर्यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रनन्तीमे किरन्ति न कोकिलाः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥ ३२० ॥ [ औ. वि. च. पृ. १४६. मालवकुवलयस्य ] वसन्तस्य शैशवं यथा गर्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्करं पल्लवाः वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णु दिवसैव॑ित्रैमनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्य धनुः ॥ ३२१ ॥ प्रौढिर्यथा साम्य सम्प्रति सेवते विचकिलं पाण्मासिकर्मोक्तिकैः कान्ति कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतात् पटात् । हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद् वृन्ताग्रतः केसरम् ॥३२२॥ [वि. शा. भ. अं. १ श्लो. २५] (62) अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्तते । लिङ्गानुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ॥ वर्षासु ग्रीष्मलिझाब्जविकासानुवृत्तिः । यथा खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चची पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् । गन्धं चुम्बति सिक्तलाजसदृर्श वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥३२३॥ किं च--- (63) प्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके । जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy