SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् अत्र हि पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।' क्वथ्यन्त इव तोयानि मायन्त इव चादयः ॥३११॥ एण्यः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिवन्धाः । ताम्यत्तिमीनि च सरांसि जलस्य शोषाद् बदारघदृघटिकावलयाश्च कूपाः ॥ ३१२ ॥ करभाः शरभाः सरासभाः मदमायान्ति भजन्ति विक्रियाम् । करवीरकरीरपुष्पिणी: स्थलभूमीरधिरुह्य चासते ॥ ३१३ ॥ सहकाररसाचिंता रसाला जलभक्तं फलपानकानि मन्थाः । मगलावरसाः सृतं च दुग्धं स्मरसंजीवनमौषधं निदाघे ॥३१४॥ जडचन्दनचारवस्तरुण्यः सजलार्दा सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ॥३१५॥ ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सैरिभाः सेभकोलाः । लोलज्जिह्वाः सर्वसारङ्गवर्गा मूलस्रस्तैः पत्रिणश्चांशदेशैः ।।३१६।। हवें रम्यं चन्द्रिकाधौतपृष्ठं कान्तोच्छिष्टा वारुणी वारिमिश्रा । मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीनं हन्त हेमन्तयन्ति ॥३१॥ वायुश्चात्र नैर्ऋतोऽनियतदिको वा । यथा--- सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तारभरेव धरा समग्रा । वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति ॥३१८॥ यथा च वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रश्नन्ति भविष्यदभ्रपटलस्थूणावितर्क नभः । किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनी सम्पदम् ॥३१९॥ २५ 1. A. B. C. वलयश्च K. M. वलयाश्च Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy